भर्तृहरिः
From Wikipedia
भर्तृहरिः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत्।सः संस्कृत भाषायाः परम विद्वान् कविश्चासीत्। तस्य समयः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् ,श्रृंगारशतकम्,वैराग्यशतकमञ्च ग्रन्थ त्रयं रचितवान्। एतान शतकत्रयम् नाम्ना जानन्ति जनाः। काश्चित् कविताः पश्यन्तु। भर्तृहरि पद्यानि
श्रोत्रं श्रुतैनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन।।१
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहिता विरमन्ति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२
सम्पत्सु महतां चित्तं भवत्युत्पल कोमलम्। आपत्सु च महाशैल शिलासंघात कर्कशम्।।३
पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति। आपद्गतं च न जहाति ददाति काले सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः।।४
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः क्वचिच्छाकाहारी क्वचिदपि च शाल्योदन रुचिः। क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५
एकेनापि हि शूरेण पादाक्रान्तं महीतलम्। क्रियते भास्करेणैव परिस्फुरित तेजसा।।६ ।