संस्कृत
From Wikipedia
संस्कृतं पृथिव्यां प्राचीना समृद्घा वैज्ञानिकी च भाषा मन्यते । विश्ववाङ्मयेषु संस्कृतं श्रेष्ठरत्नम् इति न केवलं भारते अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् । महर्षि पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते . संस्कृतशब्दा: एव उत्तरं दक्षिणं च भारतं संयोजयन्ति । संस्कृतात् प्राय: सर्वा अपि भारतीयभाषा: उद्भूता:।
संस्कृतभाषाया: भारतीयजीवने विश्वजीवने च महत्वपूर्णं स्थानं विद्यते. संस्कृतभाषाया: सुरभारती, देववाणी, देवीवाक्, गीर्वाणवाणी, देवभाषा, अमरभारती इत्यादीनि बहूनि नामानि प्रसिद्घानि सन्ति.
संस्कृतस्य प्राचीनतम ग्रन्था: वेदा: सन्ति.
(संस्कृतम्) | |
---|---|
क्षेत्र: | एशिया |
देशा: | जम्बुद्वीप, द्वीपान्तर, नेपाल |
वक्ता: | ५० लाख |
Genetic classification: |
Indo-European Indo-Iranian |
Official status | |
राजकीय भाषा: | भारत |
Language codes | |
ISO 639-1 | sa |
ISO 639-2 | san |
SIL | SKT |
Contents |
[edit] इतिहास:
एयं भाषा न केवलं भारतस्य अपितु विश्वस्यप्राचीनतमा भाषा मन्यते. इयं भाषा एतावती समृद्घा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्यते. पुरा संस्कृत लोकभाषा आसीत्. जना: संस्कृतं वदन्ति स्म.
विश्वस्य आदिम: ग्रन्थ: ऋग्वेद: संस्कृतभाषायामेवास्ति. अन्ये च वेद: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्च संस्कृतभाषायामेव सन्ति. आयुर्वेद धनुर्वेद गन्धर्ववेदार्थवेदाख्या: चत्वार: उपवेदा: अपि संस्कृते एव विरचिता:.
सर्वा: उपनिषद: संस्कृते उपनिबद्घा. अन्य ग्रन्था: - शिक्षा, कल्प, निरुक्त, ज्योतिष, छन्द, व्याकरण, वेदाङ्ग, दर्शन, इतिहास, पुराण, काव्य, शास्त्र:.
[edit] लिपि
संस्कृतलेखनस्य प्रतिरूपं सरस्वती लिपि आसीत्. कालान्तरे एतस्य रूपं ब्राह्मी लिपि बभूव. तत् उत्तर: एतत् रूपं देवनागरी लिपि परिवर्तेत. एतत् अन्य रूपान्तराणि अधस्तात् सन्ति -- बांग्ला लिपि, शारदा लिपि, तेलुगु लिपि, तमिल लिपि, यव-द्वीप लिपि, कम्बोज लिपि, कन्नड लिपि, मलयालम लिपि, गुजराती लिपि, आदि.
[edit] प्रभाव
[edit] आधुनिक भारतं
राष्ट्रस्य एकताया अखण्डतायाश्च स्थापनायै संस्कृतमेव समर्थमस्ति यत: न केवलं अस्या: भाषाया एव शब्दा: मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते, अपितु सर्वत्र भारते भाषाणामेकताया: रक्षा अपि केवलं संस्कृतेनैव क्रियते.
अस्यां भाषायां न केवलं भारतस्य अपितु निखिलस्यापि संसारस्य मानवाना कृते हितसाधका: जीवनोपयोगिनस्य सिद्धान्ता: प्रतिष्ठापिता: सन्ति. इयमेव सा भाषा यत्र ध्वने: लिखेश्च सर्वत्रैकरूपता वर्तते.
[edit] स्वरविज्ञान
पश्य: देवनागरी
[edit] स्वर:
अ आ इ ई उ ऊ ए ऐ ओ औ ऋ अं अ:
[edit] स्वरसन्धि
अ + अ = आ
अ + इ = ए
अ + उ = ओ
इ + इ = ई
उ + उ = ऊ
[edit] व्यञ्जन
क ख ग घ ङ
च छ ज झ ञ
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म
य र ल व
श ष स ह
क्ष त्र ज्ञ
[edit] रूप एवं वाक्य-विज्ञान
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेशु भवन्ति । प्रत्येक-लकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति ।
- कर्मधारीय
- तत्पुरुष
- संस्कृत साहित्य
[edit] पुनर्प्रवर्तन
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते तथास्या: व्याकरणं नितान्ती व्यवस्थितं अस्ति. व्याकरणं छन्दो बन्धनेऽपि संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधि सुललितं विराजते. वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:.
- पश्य संस्कृत भारती
[edit] बाह्य ग्रन्थय:
- संस्कृत-ग्रन्था:
- GiirvaaNi - Sanskrit Classical Literature with translation
- The Sanskrit Alphabet
- Transliteration of Indic Languages & Scripts - including devanagari for sanskrit
- Monier-Williams Dictionary - Searchable
- Monier-Wililams Dictionary - Downloadable
- Monier-Williams Dictionary - Printable
- Online Itrans
- संस्कृत-भारती
- Online Sanskrit dictionary for spoken Sanskrit